Sunday, September 28, 2008

२ unmesh

या स्थितिः संस्कृतभाषयाः वर्तमानकाले दृग्गोचरी भवति। सा स्थितिः गम्भीरा, दुःखदा, पीड़ादायिका वर्तते। स्थितिः एतावती दुर्भाग्यपूर्णा अस्ति यत् न छात्राः सन्ति, न वृत्तयः सन्ति, न समर्थकाः सन्ति, न सर्वकारः समर्थनं करोति, हि अन्याः जनाः। संस्कृतप्रध्यापकाः केवलमर्थहीनं संस्कृतं उक्त्वा उक्त्वा, चतुर्वादनपर्यन्तं शिक्षणस्यौपचारिकतां कृत्वा संतोषामुपपादयन्ति। भाषा साहित्यरूपेण यद् संस्कृतं पठामः पाठयामः, का तस्योपयोगिता वर्तते? कस्य प्रश्नस्य, कस्याः समस्याः उत्तरं समाधानं वर्तते संस्कृतम्? किमर्थं संकृतस्य क्षेत्रे नूतनाः प्रयोगाः न भवन्ति? के के नूतनाः विचाराः सन्ति संस्कृत क्षेत्रे? काः काः आन्दोलिकात्मकाः प्रभावोत्पादिकाः कविताः लिखिताः सन्ति आधुनिकसंस्कृतकविभिः? किमर्थं न ज्ञान्विज्ञानस्य भिन्नैः क्षेत्रैः सह वर्तालापं कुर्वन्ति संस्कृतज्ञाः? यदि वयम् अमृतस्य पुत्राः सन्ति तदा अस्माभिः सर्वैः किं किं सार्थकं प्रयत्नं कृतम्? केवलं स्व स्व अभिमानं तुष्यन्, परिपुष्यन् समययापनं कृतम्। मम प्रयोजनं न तु परनिन्दा, परदोषदर्शनं वाअस्ति। ममोद्देश्यं केवलमिदमेव यत् सर्वे जनाः, संस्कृतज्ञाः विचाराय समुद्यताः, तत्पराः भवेयुः। सर्वे जनाः मिलित्वा एकं सार्थकं प्रश्नं जनयेयुः, एकं सार्थकं विचारं समुत्पन्नं कुर्युः अन्यथाः या स्थिति वर्तते तस्यां स्थित्यां संस्कृतस्य नाम केवलं शेषमात्रं भविष्यति- एतस्मिन्विषये नास्ति कोऽपि सन्देहः। एतस्यां परिस्थित्यां किं करणीयं किं न करणीयं- एतत्तु चिन्तनीयं तदनन्तरं स्व स्व कर्म करणीयम्। अत्र तर्कोऽयं न सार्थकः भविष्यति यद् बवति भाग्यवशेन भवति, यद् भवुष्यति तदपि भाग्यवशेन भविष्यति। मया एकाकया किं भविष्यति? एषा निराशा, एषः विचारदौर्बल्यः, पुरूषार्थहानिः नोचितः। वयं मानवाः सन्ति, अपरञ्च प्राध्यापकाः सन्ति अतः स्व स्व कर्मेभ्यः , दायित्वबोधेभ्यः कथं पलायितुं शक्नुमः? अनेन कारणेन सर्वप्रथमं संस्कृतज्ञेन स्वत्मानं प्रश्नः प्रष्टव्यः यत् किं मया संस्कृतस्य रक्षणाय, संवर्धनाय, पोषणाय, उपयोगितायै, प्रासड्.गिकतायै पर्याप्तं पयत्नं कृतम्? यदि पर्याप्तं कर्म कृतं तदा साधुवादार्हः भवान्। यदि न कृतं तदा सद्बुध्या कर्मकरणे तत्परः भवतु भवान्। न कोऽपि मार्गोऽन्यः भवति भवते। अतः पर्याप्तकर्मणः महती अपेक्षा अस्ति। तस्य कर्मणः सुव्यवस्था सुप्रयोगः अपि करणीयः। विचार्पूर्वकं कर्म कृत्वा पुनः विचारय। विचारय सामाजिक-आर्थिक-राजनैतिकप्रासड्.गिकतायां। केवलं तदैव संकृतस्य संस्कृतज्ञानां रक्षा भाविष्यति। एतावन्मात्र पर्यन्तं मम निवेदनम्। द्वितीय उन्मेष

No comments: